|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.201. अध्यायः 201
Mahabharata - Drona Parva - Chapter Topics
नारयणास्त्रेणावेष्टिते भीमे कृष्णार्जुनाश्यां हस्ततः शस्त्रापकर्षणपूर्वकं रथादवरोपिते सत्यस्त्रस्य प्रशमनम्॥ 1 ॥ ततः सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाय। 7-201-0x(4795)(54475)
भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः।
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्॥ 7-201-1(54476)
नालक्षयत तत्कश्चिद्वारुणास्त्रेण संवृतम्।
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः॥ 7-201-2(54477)
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः।
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः॥ 7-201-3(54478)
यथा रात्रिक्षये राजञ्ज्योतीष्यस्तगिरिं प्रति।
समापेतुस्तथा बाणा भीमसेनरथं प्रति॥ 7-201-4(54479)
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष।
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन्॥ 7-201-5(54480)
यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम्।
गच्छेद्वह्निर्विभोरास्यं तथाऽस्त्रं भीममावृणोत्॥ 7-201-6(54481)
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः।
तथा प्रविष्टं तत्तेजो न आज्ञायत पाण्डवः॥ 7-201-7(54482)
`तदस्त्रं भीमहुङ्कारादपयाति पुनःपुनः।
पुनः पुनस्तमायाति हुंकारात्तं विमुञ्चति।
ततो देवाः सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः'॥ 7-201-8(54483)
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति।
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे॥ 7-201-9(54484)
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम्।
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथनान्॥ 7-201-10(54485)
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती।
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः॥ 7-201-11(54486)
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम्।
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा॥ 7-201-12(54487)
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोऽस्त्रजोऽनलः।
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः॥ 7-201-13(54488)
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च।
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्॥ 7-201-14(54489)
आकृष्यमाणः कौन्तेयो नदत्येव महारवम्।
वर्धते चैव तद्वोरं द्रौणेरस्त्रं सुदुर्जयम्॥ 7-201-15(54490)
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन।
वार्यमाणोऽपि कौन्तेय यद्युद्वान्न निवर्तसे॥ 7-201-16(54491)
यदि युद्वेन जेयाः स्युरिमे कौरवनन्दनाः।
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः॥ 7-201-17(54492)
रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः।
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम॥ 7-201-18(54493)
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत्।
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्॥ 7-201-19(54494)
यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि।
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम्॥ 7-201-20(54495)
सञ्जय उवाच। 7-201-21x(4796)
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे।
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च॥ 7-201-21(54496)
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः।
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये॥ 7-201-22(54497)
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत।
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः॥ 7-201-23(54498)
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत।
अस्त्रव्युपरमाद्वृष्टं तव पुत्रजिघांसया॥ 7-201-24(54499)
व्यवस्थिते बले तस्मिन्नेस्त्रे प्रतिहते तथा।
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्॥ 7-201-25(54500)
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय।
अवस्थिता हि पाञ्चालाः पुनरेते जयैषिणः॥ 7-201-26(54501)
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष।
सुदीनमभिनिः श्वस्य राजानमिदमब्रवीत्॥ 7-201-27(54502)
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते।
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः॥ 7-201-28(54503)
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान्।
`अस्य तु ह्येष वै दाता मानुषेषु न विद्यते॥ 7-201-29(54504)
परावरज्ञो लोकानां न तदस्ति न वेत्ति यत्।
तदेतदस्त्रं प्रशमं यातं कृष्णस्य मन्त्रितैः'॥ 7-201-30(54505)
द्विविधो विहितः सङ्ख्ये वधः शस्त्रोर्जनाधिप।
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः॥ 7-201-31(54506)
विजिताश्चारयो ह्योते शस्त्रोत्सर्गान्मृतोपमाः॥ 7-201-32(54507)
दुर्योधन उवाच। 7-201-33x(4797)
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते।
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर॥ 7-201-33(54508)
त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि।
`घ्नतैतान्सुमहावीर्य शात्रवान्युद्वकोविदः'।
इच्छतो न हि ते मुच्येत्सङ्क्रुद्धो हि पुरन्दरः॥ 7-201-34(54509)
धृतराष्ट्र उवाच। 7-201-35x(4798)
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते।
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः॥ 7-201-35(54510)
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समुपस्थितान्।
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे॥ 7-201-36(54511)
सञ्जय उवाच। 7-201-37x(4799)
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः।
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम्॥ 7-201-37(54512)
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ।
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः॥ 7-201-38(54513)
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम्।
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्॥ 7-201-39(54514)
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः।
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः॥ 7-201-40(54515)
विद्व्वा विद्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम्।
आददे सर्वलोकस्य प्राणानिव महारणे॥ 7-201-41(54516)
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः।
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम्॥ 7-201-42(54517)
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि।
अवासृजदमेयात्मा पाञ्चाल्यो रथिनांवरः॥ 7-201-43(54518)
तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः।
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्॥ 7-201-44(54519)
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके।
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्॥ 7-201-45(54520)
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहावे।
तस्य चानुचरान्सर्वान्क्रुद्धः प्राद्रावयच्छरैः॥ 7-201-46(54521)
ततः प्रदुद्रुवे सैन्यं पाञ्चालानां विशाम्पते।
सम्भ्रान्तरूपमार्तं च न परस्परमैक्षत॥ 7-201-47(54522)
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम्।
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति॥ 7-201-48(54523)
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत्।
विंशत्या पुनराहत्य नानारूपैरमर्षणः।
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्॥ 7-201-49(54524)
[धनुर्ध्वजं* ; संयत्तश्चिच्छेद कृतहस्तवत्।
स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम्।
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम्॥ 7-201-50(54525)
एवं स पीडितो राजन्नश्वत्थामा महाबालः।
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत॥ 7-201-51(54526)
एवं गते गुरोः पुत्रे तव पुत्रो महारथः।
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत्॥ 7-201-52(54527)
दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः।
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः॥ 7-201-53(54528)
दुःशासनः शतेनैव वृषसेनश्च सप्तभिः।
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥ 7-201-54(54529)
ततः स सात्यकी राजन्सर्वानेव महारथान्।
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप॥ 7-201-55(54530)
अश्वत्थामा तु सम्प्राप्य चेतनां भरतर्षभ।
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनःपुनः॥ 7-201-56(54531)
अथो रथान्तरं द्रौणिः समारुह्य परन्तपः।
सात्यकिं वारयामास किरञ्शरशतान्बहून्॥ 7-201-57(54532)
तमापतन्तं सम्प्रेक्ष्य भारद्वाजसुतं रणे।
विरथं विमुखं चैव पुनश्चक्रे महारथः॥ 7-201-58(54533)
ततस्ते पाण्डवा राजन्दृष्ट्वा सात्यकिविक्रमम्।
शङ्खशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे॥ 7-201-59(54534)
एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः।
जघान वृषसेनस्य त्रिसाहस्रान्महारथान्॥ 7-201-60(54535)
अयुतं दन्तिनां सार्धं कृपस्य निजघान सः।
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह॥ 7-201-61(54536)
ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान्।
सात्यकिं प्रति सङ्क्रुद्धः प्रययौ तद्वधेप्सया। 7-201-62(54537)
पुनस्तमागतं दृष्ट्वा शनेयो निशितैः शरैः।
अदारयत्क्रुरतरैः पुनःपुनररिन्दम॥] 7-201-63(54538)
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः।
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्॥ 7-201-64(54539)
शैनेयाब्युपपत्तिं ते जानाम्याचार्यघातिनि।
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च॥ 7-201-65(54540)
शपेत्मनाऽहं शैनेय सत्येन तपसा तथा।
अहत्वा सर्वपाञ्चालान्यदि शान्तिमहं लभे॥ 7-201-66(54541)
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम्।
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान्॥ 7-201-67(54542)
एवमुक्त्वाऽर्करम्याभं सुतीक्ष्णं तं शरोत्तमम्।
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः॥ 7-201-68(54543)
स तं निर्भिद्य तेनास्तः सायकः शरावरम्।
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः॥ 7-201-69(54544)
स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः।
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः॥ 7-201-70(54545)
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत्।
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम्॥ 7-201-71(54546)
अथान्येन सुपुङ्खेन शरेणानतपर्वणा।
आजघान भ्रवोर्मध्ये धृष्टद्युम्नं परन्तपः॥ 7-201-72(54547)
स पूर्वमतिविद्धश्च भृशं पस्चाच्च पीडितः।
ससदाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम्॥ 7-201-73(54548)
तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम्।
जवेनाभ्यद्रवञ्छूराः पञ्च पाण़्डवतो रथाः॥ 7-201-74(54549)
किरीटी भीमसेनश्च वृद्वक्षत्रश्च पौरवः।
युवराजश्च चेदीनां मालवश्च सुदर्शनः॥ 7-201-75(54550)
एते हाहाकृताः सर्वे प्रगृहीतशरासनाः।
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन्॥ 7-201-76(54551)
ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम्।
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम्॥ 7-201-77(54552)
आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः।
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्॥ 7-201-78(54553)
सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत्।
मालवं त्रिभिरेकेन पार्थं ष़ड्भिर्वृकोदरम्। 7-201-79(54554)
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः।
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः॥ 7-201-80(54555)
युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः।
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः॥ 7-201-81(54556)
ततोऽर्जुनं षड्भिरथाजघान
द्रौणायनिर्दशभिर्वासुदेवम्।
भीमं दशार्धैर्युवारजं चतुर्भि-
र्द्वाभ्यां द्वाभ्यां मालवं पौरवं च॥ 7-201-82(54557)
सूतं विद्व्वाः भीमसेनस्य षड्भि--
र्द्वाभ्यां विद्व्वा कार्मुकं च ध्वजं च।
पुनः पार्थं शरवर्षेण विद्व्वा
द्रौणिर्घोरं सिंहनादं ननाद॥ 7-201-83(54558)
तस्यास्यतस्तान्निशितान्पीतधारा--
न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च।
धरा वियद्द्यौः प्रदिशो दिशश्च
च्छन्ना बाणैरभवन्धोररूपैः॥ 7-201-84(54559)
आसन्नस्य स्वरथं तीव्रतेजाः
सुदर्शनस्येन्द्रकेतुप्रकाशौ।
भुजौ शिरश्चेन्द्रसमानवीर्य--
स्त्रिभिः शरैर्युगपत्सञ्चकर्त॥ 7-201-85(54560)
स पौरवं रथशक्त्या निहत्य
च्छित्त्वा रथं तिलशश्चास्य बाणैः।
छित्त्वा च बाहू वरचन्दनाक्तौ
भल्लेन कायाच्छिर उच्चकर्त॥ 7-201-86(54561)
युवानमिन्दीवरदामवर्णं
चेदिप्रभुं युवराजं प्रसह्य।
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै--
र्विद्व्वा प्रादान्मृत्येव साश्वसूतम्॥ 7-201-87(54562)
[*मालवं पौरवं चैव युवराजं च चेदिपम्।
दृष्ट्वा समक्षं निहतं द्रोणपुत्रोण पाण्डवः।
भीमसेनो महाबाहुः क्रोधमाहारयत्परम्॥ 7-201-88(54563)
ततः शरशतैस्तीक्ष्णैः सङ्क्रुद्धाशीविषोपमैः।
छादयामास समरे द्रोणपुत्रं परन्तपः॥ 7-201-89(54564)
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम्।
विव्याध निशितैर्बाणैर्भीमसेनममर्षणः॥ 7-201-90(54565)
ततो भीमो महाबाहुद्रौणेर्युधि महाबलः।
क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा॥ 7-201-91(54566)
तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः।
अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः॥ 7-201-92(54567)
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ।
अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ॥ 7-201-93(54568)
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः।
द्रौणिं सञ्छादयामासुर्घनौघा इव भास्करम्॥ 7-201-94(54569)
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः।
अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः॥ 7-201-95(54570)
स च्छाद्यमानः समरे द्रौणिना रणशालिना।
न विव्यथे महाराज तदद्भुतमिवाभवत्॥ 7-201-96(54571)
ततो भीमो महाबाहुः कार्तस्वरविभूषितान्।
नाराचान्दश सम्प्रैषीद्यमदण्डनिभाञ्छितान्॥ 7-201-97(54572)
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष।
निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः॥ 7-201-98(54573)
सोऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना।
ध्वजयष्टिं समासाद्य न्यमीलयत लोचने॥ 7-201-99(54574)
स मुहूर्तात्पुनः संज्ञां लब्ध्वा द्रौणिर्नराधिप।
क्रोधं परममातस्थौ समरे रुधिरोक्षितः॥ 7-201-100(54575)
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना।
वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति॥ 7-201-101(54576)
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम्।
शतमाशीविषाभानां प्रेषयामास भारत॥ 7-201-102(54577)
भीमोऽपि समरश्लाघी तस्य वीर्यमचिन्तयत्।
तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः॥ 7-201-103(54578)
ततो द्रौणिर्महाराज च्छित्त्वाऽस्य विशिखैर्धनुः।
आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः॥ 7-201-104(54579)
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः।
विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे॥ 7-201-105(54580)
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ।
अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि॥ 7-201-106(54581)
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम्।
अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ॥ 7-201-107(54582)
ततो विष्फार्य सुमहच्चापं रुक्मविभूषितम्।
भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात्।
शरद्यहर्मध्यगतो द्रीप्तार्चिरिव भास्करः॥ 7-201-108(54583)
आददनास्य विशिखान्सन्दधानस्य चाशुगान्।
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः॥ 7-201-109(54584)
अलातचक्रप्रतिमं तस्य मण्डलमायुधम्।
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा॥ 7-201-110(54585)
धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः।
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः॥ 7-201-111(54586)
ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः।
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति॥ 7-201-112(54587)
तत्राद्भुतकमपश्याम भीमसेनस्य विक्रमम्।
बलं वीर्यं प्रभावं च व्यवसायं च भारत॥ 7-201-113(54588)
तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः।
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन्॥ 7-201-114(54589)
द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः।
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः॥ 7-201-115(54590)
तद्रुक्मपृष्टं भीमस्य धनुर्घारं महारणे।
विकृष्यमाणं विबभौ शक्रचापमिवापरम्॥ 7-201-116(54591)
तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः।
सञ्छादयन्तः समरे द्रौणिमाहवशोभिनम्॥ 7-201-117(54592)
तयोर्विसृजतोरेवं शरजालानि मारिष।
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम्॥ 7-201-118(54593)
तथा द्रौणिर्महाराज शरान्हेमविभूषितान्।
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया॥ 7-201-119(54594)
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
विशेषयन्द्रोणसुतं तिष्ठतिष्ठेति चाब्रवीत्॥ 7-201-120(54595)
पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः।
व्यसृजद्बलवानक्रुद्धो द्रोणपुत्रवधेप्सया॥ 7-201-121(54596)
ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम्।
धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित्।
शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत्॥ 7-201-122(54597)
स छिन्नधन्वा बलवान्रथशक्तिं सुदारुणाम्॥
वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति॥ 7-201-123(54598)
तामापतन्तीं सहसा महोल्काभां शितैः शरैः।
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम्॥ 7-201-124(54599)
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम्।
द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः॥ 7-201-125(54600)
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम्।
ललाटे दारयामास शरेणानतपर्वणा॥ 7-201-126(54601)
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः।
व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनां॥ 7-201-127(54602)
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ।
भीमसेनस्य राजेनद्र् पश्यतां सर्वधन्विनाम्॥ 7-201-128(54603)
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात्।
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः॥ 7-201-129(54604)
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण़्डवः।
धृष्टद्युम्नरथं त्यक्त्वा भीताः सम्प्राद्रवन्दिशः॥ 7-201-130(54605)
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान्।
अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम्॥ 7-201-131(54606)
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः।
द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे॥ ॥ 7-201-132(54607)
इति श्रीमन्महाभारते द्रोणपर्वण नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे एकाधिकद्विशततमोऽध्यायः॥ 201 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-201-* एतदादि 14 श्लोकाः झ. पुस्त एव दृश्यन्ते। 5-201-* एतदादि 42 श्लोकाः झ. पाठ एव सन्ति।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|